|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.199. अध्यायः 199
Mahabharata - Adi Parva - Chapter Topics
अर्जुनेन अनुरूपपुरोहितसंपादनं पृष्टेन गन्धर्वेण धौम्यवरणाक्ष्यनुज्ञा॥ 1 ॥ गन्धर्वाय आग्नेयास्त्रदानम्॥ 2 ॥ उत्को चतीर्थे पाण्डवैः धौम्यस्य पौरोहित्ये वरणम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
अर्जुन उवाच। 1-199-0x(1126)(8831)
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित्।
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव॥ 1-199-1(8832)
गन्धर्व उवाच। 1-199-2x(1127)
यवीयान्देवलस्यैष वने भ्राता तपस्यति।
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यीच्छथ॥ 1-199-2(8833)
वैशम्पायन उवाच। 1-199-3x(1128)
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि।
गन्धर्वाय `स च प्रीतो वचनं चेदमब्रवीत्॥ 1-199-3(8834)
मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे।
उपकारकृतं मित्रं प्रतिकारेण योजये॥ 1-199-4(8835)
गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम।
एवमुक्तोऽर्जुनः' प्रीतो वचनं चेदमब्रवीत्॥ 1-199-5(8836)
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम।
कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत्॥ 1-199-6(8837)
तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह।
रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे॥ 1-199-7(8838)
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते।
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत॥ 1-199-8(8839)
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः।
वन्येन फलमूलेन पौरोहित्येन चैव ह॥ 1-199-9(8840)
ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः।
ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे॥ 1-199-10(8841)
पुरोहितेन तेनाथ गुरुणा संगतास्तदा।
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः॥ 1-199-11(8842)
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः।
वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः॥ 1-199-12(8843)
तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया।
मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः॥ 1-199-13(8844)
स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि।
तेन धर्मविदा पार्था योज्या सर्वविदा वृताः॥ 1-199-14(8845)
मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः।
बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे॥ 1-199-15(8846)
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः।
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम्॥ ॥ 1-199-16(8847)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोनद्विशततमोऽध्यायः॥ 199 ॥ ॥ समाप्तं चैत्ररथपर्व ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|